DAV Class 7 Sanskrit Chapter 3 Solutions – उपकारकाः वृक्षा:
Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 3 उपकारकाः वृक्षा:
1. वाक्यानि शुद्धानि अशुद्धानि वा इति पठित्वा वदन्तु लिखन्तु च
वाक्य | उत्तर |
---|
i. वृक्षाः अस्माकं जीवनस्य आधाराः सन्ति। | शुद्धम् |
ii. वृक्षाः भूमेः उद्भवन्ति। | शुद्धम् |
iii. वृक्षाः अपि भोजन कुर्वन्ति। | शुद्धम् |
iv. सर्वे वृक्षाः फलानि यच्छन्ति। | अशुद्धम् |
v. वृक्षाः अपि जायन्ते वर्धन्ते म्रियन्ते च। | शुद्धम् |
vi. वृक्षाः अस्माभिः रक्षणीयाः भवन्ति। | शुद्धम् |
2. मज्जूषायाः चित्वा वदन्तु लिखन्तु च – वृक्षाः अस्मभ्यं किं किं यच्छन्ति
- वृक्षाः परेभ्यः स्वच्छवायुं यच्छन्ति।
- वृक्षाः शीतलां छायाम् यच्छन्ति।
- वृक्षाः मधुराणि फलानि यच्छन्ति।
- वृक्षाः वातावरणं स्वच्छं कुर्वन्ति।
- वृक्षाः कोमलानि पुष्पाणि यच्छन्ति।
- वृक्षाः प्राणिनाम् अतीव उपकारं कुर्वन्ति।
3. उचित अर्थैः सह मेलनं कुर्वन्तु
शब्द | अर्थ |
---|
i. वृक्षाः | तरवः |
ii. भुक्त्वा | खादित्वा |
iii. बहवः | अनेके |
iv. पृथिव्याम् | भूमौ |
v. रसम् | जलम् |
4. एतेषां प्रश्नानां उत्तराणि एकपदेन वदन्तु लिखन्तु च
प्रश्न | उत्तर |
---|
i. वृक्षाः कस्याः उद्भवन्ति? | भूमेः |
ii. शाखाः कस्मात् उद्भवन्ति? | प्रकाण्डात् |
iii. पुष्पाणि कुत्र भवन्ति? | प्रशाखासु |
iv. मूलानि भूमेः किं ग्रहणं कुर्वन्ति? | रसम् |
v. पादपाः कैः जलं पिबन्ति? | पादैः |
5. एतेषां प्रश्नानां उत्तराणि पूर्णवाक्येन लिखन्तु
प्रश्न | उत्तर |
---|
i. वृक्षाः कथं जीवन्ति? | वृक्षाः अपि अस्माकं इव भुक्त्वा पीत्वा च जीवन्ति। |
ii. वृक्षाः पादपाः किमर्थं कथ्यन्ते? | वृक्षाः पादैः जलं पिबन्ति अतः ते पादपाः कथ्यन्ते। |
iii. वृक्षाः कथं फलन्ति? | मूलानि भूमेः रसं गृहीत्वा अन्येभ्यः अवयवेभ्यः यच्छन्ति, येन एते वृक्षाः फलन्ति। |
iv. वृक्षाः कथं प्राणिनः इव आचरन्ति? | वृक्षेषु अपि प्राणाः भवन्ति, अतः एते वृक्षाः प्राणिनः इव आचरन्ति। |
v. वृक्षाः कथं प्राणिनां उपकारं कुर्वन्ति? | वृक्षाः पत्रैः, पुष्पैः, फलैः, छायया, वल्कलैः, काष्ठैः च प्राणिनां उपकारं कुर्वन्ति। |
6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु
वाक्य | प्रश्न |
---|
i. वृक्षाः अस्माकं जीवनं सन्ति। | के अस्माकं जीवनं सन्ति? |
ii. वृक्षाणां मूलानि पृथिव्यां भवन्ति। | वृक्षाणां मूलानि कुत्र भवन्ति? |
iii. प्रकाण्डात् शाखाः उद्भवन्ति। | शाखाः कस्मात् उद्भवन्ति? |
iv. वृक्षाः प्राणिनः इव आचरन्ति। | वृक्षाः के इव आचरन्ति? |
v. वृक्षाणां बहवः भेदाः सन्ति। | वृक्षाणां कति भेदाः सन्ति? |
vi. वृक्षरक्षणे अस्माकं जीवनरक्षणं अस्ति। | वृक्षरक्षणे किं अस्ति? |
7. उदाहरणानुसारं निम्नलिखित-पदानां वर्णान् पृथक् कृत्वा लिखन्तु-
क्रमांक | पदम् (Word) | वर्णविभाजनम् (Letter Breakdown) |
---|
i. | उद्भवन्ति | उ + द् + भ् + अ + व् + अ + न् + त् + इ |
ii. | पृथिव्याम् | प् + ॠ + थ् + इ + व् + य् + आ + म् |
iii. | उपरिष्टात् | उ + प् + अ + र् + इ + ष् + ट् + आ + त् |
iv. | प्रकाण्डः | प् + ॠ + अ + क् + आ + ण् + ड् + अ + : |
v. | भुक्त्वा | भ् + उ + क् + त् + व् + आ |
vi. | गृहीत्वा | ग् + ॠ + ह् + ई + त् + व् + आ |
vii. | म्रियन्ते | म् + र् + इ + य् + अ + न् + त् + ए |
viii. | खर्जूरः | ख् + अ + र् + ज् + ऊ + र् + अ + : |
ix. | वल्कलैः | व् + अ + ल् + क् + अ + ल् + ऐ + : |
x. | रक्षणीया: | र् + अ + क् + ष् + अ + ण् + ई + य् + आ + : |
मूल्यात्मक प्रश्न (Value-based Question):
प्रश्न: भवन्तः अपठन् यत् वृक्षाः सदैव प्राणिनाम् उपकारं कुर्वन्ति। एतेषां रक्षणे एव अस्माकं जीवनस्य रक्षणम्। अतः भवन्तः वृक्षाणाम् रक्षणाय किं किं कुर्वन्ति।
उत्तर:
i. वृक्षाणां रक्षणाय वयं तान् परितः रक्षोपायम् कुर्मः।
ii. येन पशवः जनाश्च न गच्छेयुः।
iii. काष्ठाय वृक्षाणां कर्तनं रोधव्यम्।
iv. वृक्षाणां पालनं बालकान् इव कर्तव्यम्।
v. समये समये जलं, उर्वरकं, खादीन् अपि दातव्यम्।
गतिविधि (Activity):
- स्व-स्वगृहे एकस्य पादस्य आरोपणं कुर्वन्तु।
- वृक्षाः अस्मभ्यं यान् पदार्थान् यच्छन्ति पुस्तिकायां तेषां नामानि लिखित्वा संग्रहं कुर्वन्तु।
उत्तर:
वृक्षाः अस्मभ्यं काष्ठानि, पुष्पाणि, पत्राणि, फलानि, औषधीः, छाया, शुद्ध वातावरणं त्वगादीन् अपि यच्छन्ति।
व्याकरणम् (Grammar)
‘क्त्वा’ प्रत्यय
i. ध्यात्वा (ध्यान करके), पठित्वा (पढ़कर), धावित्वा (दौड़कर), कृत्वा (करके), स्थित्वा (ठहरकर), खादित्वा (खाकर), श्रुत्वा (सुनकर), स्मृत्वा (यादकर)
‘क्त्वा’ प्रत्ययान्त पदों के उदाहरण
वाक्य | प्रकृति + प्रत्यय |
---|
i. ते खेलित्वा पठिष्यन्ति। | खेल् + क्त्वा |
ii. बाला: गृहं गत्वा भोजनं खादिष्यन्ति। | गम् + क्त्वा |
iii. सैनिका: चौरं गृहीत्वा न्यायालयं नयन्ति। | ग्रह् + क्त्वा |
iv. जनाः चौरं दृष्ट्वा प्रश्नान् पृच्छन्ति। | दृश् + क्त्वा |
v. चौरः प्रश्नान् श्रुत्वा किमपि उत्तरं न यच्छति। | श्रु + क्त्वा |
vi. चौरः दुःखी भूत्वा ईश्वरं स्मरति। | भू + क्त्वा |
‘क्त्वा’ के स्थान पर ‘ल्यप्’ प्रत्यय
वाक्य | प्रत्यय रूपांतरण |
---|
i. रमा हसित्वा वदति। | सा प्रहस्य वदति। |
ii. नरः भिक्षुकाय भोजनं दत्वा प्रसीदति। | नरः भिक्षुकाय भोजनं प्रदाय प्रसीदति। |
iii. सः ईश्वरं नत्वा कार्यं करोति। | सः ईश्वरं प्रणम्य कार्यं करोति। |
iv. उद्यमं त्यक्त्वा कार्यं न सिध्यति। | उद्यमं परित्यज्य कार्यं न सिध्यति। |